Original

यत्राब्रवीत्सूतपुत्रः सभायां कृष्णां स्थितां श्वशुराणां समीपे ।न ते गतिर्विद्यते याज्ञसेनि प्रपद्येदानीं धार्तराष्ट्रस्य वेश्म ।पराजितास्ते पतयो न सन्ति पतिं चान्यं भामिनि त्वं वृणीष्व ॥ ३६ ॥

Segmented

यत्र अब्रवीत् सूतपुत्रः सभायाम् कृष्णाम् स्थिताम् श्वशुराणाम् समीपे न ते गतिः विद्यते याज्ञसेनि प्रपद्य इदानीम् धार्तराष्ट्रस्य वेश्म पराजितासः ते पतयो न सन्ति पतिम् च अन्यम् भामिनि त्वम् वृणीष्व

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
श्वशुराणाम् श्वशुर pos=n,g=m,c=6,n=p
समीपे समीप pos=n,g=n,c=7,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s
प्रपद्य प्रपद् pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
पराजितासः पराजि pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
पतयो पति pos=n,g=m,c=1,n=p
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
पतिम् पति pos=n,g=m,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot