Original

भागः पुनः पाण्डवानां निविष्टस्तं नोऽकस्मादाददीरन्परे वै ।अस्मिन्पदे युध्यतां नो वधोऽपि श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः ।एतान्धर्मान्कौरवाणां पुराणानाचक्षीथाः संजय राज्यमध्ये ॥ २९ ॥

Segmented

भागः पुनः पाण्डवानाम् निविष्टस् तम् नो ऽकस्माद् आददीरन् परे वै अस्मिन् पदे युध्यताम् नो वधो ऽपि श्लाघ्यः पित्र्यः पर-राज्यात् विशिष्टः एतान् धर्मान् कौरवाणाम् पुराणान् आचक्षीथाः संजय राज्य-मध्ये

Analysis

Word Lemma Parse
भागः भाग pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
निविष्टस् निविश् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
नो नो pos=i
ऽकस्माद् अकस्मात् pos=i
आददीरन् आदा pos=v,p=3,n=p,l=vidhilin
परे पर pos=n,g=m,c=1,n=p
वै वै pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
पदे पद pos=n,g=m,c=7,n=s
युध्यताम् युध् pos=v,p=3,n=s,l=lot
नो नो pos=i
वधो वध pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
श्लाघ्यः श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
पित्र्यः पित्र्य pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
राज्यात् राज्य pos=n,g=n,c=5,n=s
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
एतान् एतद् pos=n,g=m,c=2,n=p
धर्मान् धर्म pos=n,g=m,c=2,n=p
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
पुराणान् पुराण pos=a,g=m,c=2,n=p
आचक्षीथाः आचक्ष् pos=v,p=2,n=s,l=vidhilin
संजय संजय pos=n,g=m,c=8,n=s
राज्य राज्य pos=n,comp=y
मध्ये मध्ये pos=i