Original

यदा गृध्येत्परभूमिं नृशंसो विधिप्रकोपाद्बलमाददानः ।ततो राज्ञां भविता युद्धमेतत्तत्र जातं वर्म शस्त्रं धनुश्च ।इन्द्रेणेदं दस्युवधाय कर्म उत्पादितं वर्म शस्त्रं धनुश्च ॥ २७ ॥

Segmented

यदा गृध्येत् पर-भूमिम् नृशंसो विधि-प्रकोपात् बलम् आददानः ततो राज्ञाम् भविता युद्धम् एतत् तत्र जातम् वर्म शस्त्रम् धनुः च इन्द्रेण इदम् दस्यु-वधाय कर्म उत्पादितम् वर्म शस्त्रम् धनुः च

Analysis

Word Lemma Parse
यदा यदा pos=i
गृध्येत् गृध् pos=v,p=3,n=s,l=vidhilin
पर पर pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
नृशंसो नृशंस pos=a,g=m,c=1,n=s
विधि विधि pos=n,comp=y
प्रकोपात् प्रकोप pos=n,g=m,c=5,n=s
बलम् बल pos=n,g=n,c=2,n=s
आददानः आदा pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
भविता भू pos=v,p=3,n=s,l=lrt
युद्धम् युद्ध pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
जातम् जन् pos=va,g=n,c=1,n=s,f=part
वर्म वर्मन् pos=n,g=n,c=1,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दस्यु दस्यु pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
उत्पादितम् उत्पादय् pos=va,g=n,c=1,n=s,f=part
वर्म वर्मन् pos=n,g=n,c=1,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i