Original

तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा ।यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान्कृत्वा पुण्यकृदावसेद्गृहान् ॥ २२ ॥

Segmented

तथा राजन्यो रक्षणम् वै प्रजानाम् कृत्वा धर्मेण अप्रमत्तः ऽथ दत्त्वा यज्ञैः इष्ट्वा सर्व-वेदान् अधीत्य दारान् कृत्वा पुण्य-कृत् आवसेद् गृहान्

Analysis

Word Lemma Parse
तथा तथा pos=i
राजन्यो राजन्य pos=n,g=m,c=1,n=s
रक्षणम् रक्षण pos=n,g=n,c=2,n=s
वै वै pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
कृत्वा कृ pos=vi
धर्मेण धर्म pos=n,g=m,c=3,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
दत्त्वा दा pos=vi
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
इष्ट्वा यज् pos=vi
सर्व सर्व pos=n,comp=y
वेदान् वेद pos=n,g=m,c=2,n=p
अधीत्य अधी pos=vi
दारान् दार pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
पुण्य पुण्य pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
आवसेद् आवस् pos=v,p=3,n=s,l=vidhilin
गृहान् गृह pos=n,g=m,c=2,n=p