Original

ते चेदिमे कौरवाणामुपायमधिगच्छेयुरवधेनैव पार्थाः ।धर्मत्राणं पुण्यमेषां कृतं स्यादार्ये वृत्ते भीमसेनं निगृह्य ॥ १७ ॥

Segmented

ते चेद् इमे कौरवाणाम् उपायम् अधिगच्छेयुः अवधेन एव पार्थाः धर्म-त्राणम् पुण्यम् एषाम् कृतम् स्याद् आर्ये वृत्ते भीमसेनम् निगृह्य

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
इमे इदम् pos=n,g=m,c=1,n=p
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
उपायम् उपाय pos=n,g=m,c=2,n=s
अधिगच्छेयुः अधिगम् pos=v,p=3,n=p,l=vidhilin
अवधेन अवध pos=n,g=m,c=3,n=s
एव एव pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
त्राणम् त्राण pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आर्ये आर्य pos=a,g=n,c=7,n=s
वृत्ते वृत्त pos=n,g=n,c=7,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
निगृह्य निग्रह् pos=vi