Original

बृहस्पतिर्ब्रह्मचर्यं चचार समाहितः संशितात्मा यथावत् ।हित्वा सुखं प्रतिरुध्येन्द्रियाणि तेन देवानामगमद्गौरवं सः ॥ १३ ॥

Segmented

बृहस्पतिः ब्रह्मचर्यम् चचार समाहितः संशित-आत्मा यथावत् हित्वा सुखम् प्रतिरुध्य इन्द्रियाणि तेन देवानाम् अगमद् गौरवम् सः

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
समाहितः समाहित pos=a,g=m,c=1,n=s
संशित संशित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यथावत् यथावत् pos=i
हित्वा हा pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
प्रतिरुध्य प्रतिरुध् pos=vi
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
तेन तेन pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
अगमद् गम् pos=v,p=3,n=s,l=lun
गौरवम् गौरव pos=n,g=n,c=2,n=s
सः तद् pos=n,g=m,c=1,n=s