Original

वृष्ण्यन्धका ह्युग्रसेनादयो वै कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः ।मनस्विनः सत्यपराक्रमाश्च महाबला यादवा भोगवन्तः ॥ १२ ॥

Segmented

वृष्णि-अन्धकाः हि उग्रसेन-आदयः वै कृष्ण-प्रणीताः सर्व एव इन्द्र-कल्पाः मनस्विनः सत्य-पराक्रमाः च महा-बलाः यादवा भोगवन्तः

Analysis

Word Lemma Parse
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
हि हि pos=i
उग्रसेन उग्रसेन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
वै वै pos=i
कृष्ण कृष्ण pos=n,comp=y
प्रणीताः प्रणी pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
इन्द्र इन्द्र pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
यादवा यादव pos=n,g=m,c=1,n=p
भोगवन्तः भोगवत् pos=a,g=m,c=1,n=p