Original

त्वमेवैतत्प्रज्ञयाजातशत्रो शमं कुर्या येन शर्माप्नुयुस्ते ।धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च ये चाप्यन्ये पार्थिवाः संनिविष्टाः ॥ ९ ॥

Segmented

त्वम् एव एतत् प्रज्ञया अजात-शत्रो शमम् कुर्या येन शर्म आप्नुयुः ते धार्तराष्ट्राः पाण्डवाः सृञ्जयाः च ये च अपि अन्ये पार्थिवाः संनिविष्टाः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
अजात अजात pos=a,comp=y
शत्रो शत्रु pos=n,g=m,c=8,n=s
शमम् शम pos=n,g=m,c=2,n=s
कुर्या कृ pos=v,p=2,n=s,l=vidhilin
येन यद् pos=n,g=m,c=3,n=s
शर्म शर्मन् pos=n,g=n,c=2,n=s
आप्नुयुः आप् pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
संनिविष्टाः संनिविश् pos=va,g=m,c=1,n=p,f=part