Original

चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत ।मन्ये साक्षाद्दृष्टमहं नरेन्द्रं दृष्ट्वैव त्वां संजय प्रीतियोगात् ॥ ७ ॥

Segmented

चिराद् इदम् कुशलम् भारतस्य श्रुत्वा राज्ञः कुरु-वृद्धस्य सूत मन्ये साक्षाद् दृष्टम् अहम् नरेन्द्रम् दृष्ट्वा एव त्वाम् संजय प्रीति-योगात्

Analysis

Word Lemma Parse
चिराद् चिरात् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
भारतस्य भारत pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
राज्ञः राजन् pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
सूत सूत pos=n,g=m,c=8,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
साक्षाद् साक्षात् pos=i
दृष्टम् दृश् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
प्रीति प्रीति pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s