Original

वैशंपायन उवाच ।राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य संजयः ।उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ॥ १ ॥

Segmented

वैशंपायन उवाच राज्ञः तु वचनम् श्रुत्वा धृतराष्ट्रस्य संजयः उपप्लव्यम् ययौ द्रष्टुम् पाण्डवान् अमित-ओजस्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
संजयः संजय pos=n,g=m,c=1,n=s
उपप्लव्यम् उपप्लव्य pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
द्रष्टुम् दृश् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=2,n=p