Original

यशोमानौ वर्धयन्यादवानां पुराभिनच्छिशुपालं समीके ।यस्य सर्वे वर्धयन्ति स्म मानं करूषराजप्रमुखा नरेन्द्राः ॥ २६ ॥

Segmented

यशः-मानौ वर्धयन् यादवानाम् पुरा अभिनत् शिशुपालम् समीके यस्य सर्वे वर्धयन्ति स्म मानम् करूष-राज-प्रमुखाः नरेन्द्राः

Analysis

Word Lemma Parse
यशः यशस् pos=n,comp=y
मानौ मान pos=n,g=m,c=2,n=d
वर्धयन् वर्धय् pos=va,g=m,c=1,n=s,f=part
यादवानाम् यादव pos=n,g=m,c=6,n=p
पुरा पुरा pos=i
अभिनत् भिद् pos=v,p=3,n=s,l=lan
शिशुपालम् शिशुपाल pos=n,g=m,c=2,n=s
समीके समीक pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वर्धयन्ति वर्धय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
मानम् मान pos=n,g=m,c=2,n=s
करूष करूष pos=n,comp=y
राज राजन् pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
नरेन्द्राः नरेन्द्र pos=n,g=m,c=1,n=p