Original

अनेनाहं विधानेन संनद्धः सततोत्थितः ।क्षपयेयं महत्सैन्यं कालेनानेन भारत ॥ १३ ॥

Segmented

अनेन अहम् विधानेन संनद्धः सतत-उत्थितः क्षपयेयम् महत् सैन्यम् कालेन अनेन भारत

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
विधानेन विधान pos=n,g=n,c=3,n=s
संनद्धः संनह् pos=va,g=m,c=1,n=s,f=part
सतत सतत pos=a,comp=y
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
क्षपयेयम् क्षपय् pos=v,p=1,n=s,l=vidhilin
महत् महत् pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
कालेन काल pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s