Original

यक्षा ऊचुः ।द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी ।तस्यै निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् ॥ ३६ ॥

Segmented

यक्षा ऊचुः द्रुपदस्य सुता राजन् राज्ञो जाता शिखण्डिनी तस्यै निमित्ते कस्मिंश्चित् प्रादात् पुरुष-लक्षणम्

Analysis

Word Lemma Parse
यक्षा यक्ष pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
शिखण्डिनी शिखण्डिनी pos=n,g=f,c=1,n=s
तस्यै तद् pos=n,g=f,c=4,n=s
निमित्ते निमित्त pos=n,g=n,c=7,n=s
कस्मिंश्चित् कश्चित् pos=n,g=n,c=7,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
पुरुष पुरुष pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s