Original

ताः प्रेषितास्तत्त्वभावं विदित्वा प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् ।शिखण्डिनं पुरुषं कौरवेन्द्र दशार्णराजाय महानुभावम् ॥ २६ ॥

Segmented

ताः प्रेषिताः तत्त्व-भावम् विदित्वा प्रीत्या राज्ञे तत् शशंसुः हि सर्वम् शिखण्डिनम् पुरुषम् कौरव-इन्द्र दशार्ण-राजाय महा-अनुभावम्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
प्रेषिताः प्रेषय् pos=va,g=f,c=1,n=p,f=part
तत्त्व तत्त्व pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
तत् तद् pos=n,g=n,c=2,n=s
शशंसुः शंस् pos=v,p=3,n=p,l=lit
हि हि pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
कौरव कौरव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दशार्ण दशार्ण pos=n,comp=y
राजाय राज pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
अनुभावम् अनुभाव pos=n,g=m,c=2,n=s