Original

भगवन्नेवमेवैतद्यथाह भगवांस्तथा ।अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः ॥ ६ ॥

Segmented

भगवन्न् एवम् एव एतत् यथा आह भगवान् तथा अजेयो युधि भीष्मो ऽयम् अपि देवैः उदार-धीः

Analysis

Word Lemma Parse
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
एवम् एवम् pos=i
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
आह अह् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
अजेयो अजेय pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अपि अपि pos=i
देवैः देव pos=n,g=m,c=3,n=p
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s