Original

ततोऽहं तानपि रणे शरैराशीविषोपमैः ।संछिद्य भूमौ नृपतेऽपातयं पन्नगानिव ॥ ३५ ॥

Segmented

ततो ऽहम् तान् अपि रणे शरैः आशीविष-उपमैः संछिद्य भूमौ नृपते ऽपातयम् पन्नगान् इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
संछिद्य संछिद् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
ऽपातयम् पातय् pos=v,p=1,n=s,l=lan
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
इव इव pos=i