Original

ततस्तु तेऽब्रुवन्वाक्यं ब्राह्मणास्तां तपस्विनीम् ।त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने ।प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः ॥ १० ॥

Segmented

ततस् तु ते ऽब्रुवन् वाक्यम् ब्राह्मणाः ताम् तपस्विनीम् त्वाम् इह एकाकिनीम् दृष्ट्वा निर्जने गहने वने प्रार्थयिष्यन्ति राज-इन्द्राः तस्मात् मा एवम् मनः कृथाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
इह इह pos=i
एकाकिनीम् एकाकिन् pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
निर्जने निर्जन pos=a,g=n,c=7,n=s
गहने गहन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
प्रार्थयिष्यन्ति प्रार्थय् pos=v,p=3,n=p,l=lrt
राज राजन् pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
मा मा pos=i
एवम् एवम् pos=i
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug