Original

एवं सा परिनिश्चित्य जगाम नगराद्बहिः ।आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ।ततस्तामवसद्रात्रिं तापसैः परिवारिता ॥ ९ ॥

Segmented

एवम् सा परिनिश्चित्य जगाम नगराद् बहिः आश्रमम् पुण्य-शीलानाम् तापसानाम् महात्मनाम् ततस् ताम् अवसद् रात्रिम् तापसैः परिवारिता

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सा तद् pos=n,g=f,c=1,n=s
परिनिश्चित्य परिनिश्चि pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
नगराद् नगर pos=n,g=n,c=5,n=s
बहिः बहिस् pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पुण्य पुण्य pos=a,comp=y
शीलानाम् शील pos=n,g=m,c=6,n=p
तापसानाम् तापस pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अवसद् वस् pos=v,p=3,n=s,l=lan
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
तापसैः तापस pos=n,g=m,c=3,n=p
परिवारिता परिवारय् pos=va,g=f,c=1,n=s,f=part