Original

भीष्म उवाच ।ततोऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा ।मन्त्रिणश्च द्विजांश्चैव तथैव च पुरोहितान् ।समनुज्ञासिषं कन्यां ज्येष्ठामम्बां नराधिप ॥ १ ॥

Segmented

भीष्म उवाच ततो ऽहम् समनुज्ञाप्य कालीम् सत्यवतीम् तदा मन्त्रिणः च द्विजान् च एव तथा एव च पुरोहितान् समनुज्ञासिषम् कन्याम् ज्येष्ठाम् अम्बाम् नराधिप

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
समनुज्ञाप्य समनुज्ञापय् pos=vi
कालीम् काली pos=n,g=f,c=2,n=s
सत्यवतीम् सत्यवती pos=n,g=f,c=2,n=s
तदा तदा pos=i
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
pos=i
पुरोहितान् पुरोहित pos=n,g=m,c=2,n=p
समनुज्ञासिषम् समनुज्ञा pos=v,p=1,n=s,l=lun
कन्याम् कन्या pos=n,g=f,c=2,n=s
ज्येष्ठाम् ज्येष्ठ pos=a,g=f,c=2,n=s
अम्बाम् अम्बा pos=n,g=f,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s