Original

भीष्म उवाच ।एते रथास्ते संख्यातास्तथैवातिरथा नृप ।ये चाप्यर्धरथा राजन्पाण्डवानामतः शृणु ॥ १४ ॥

Segmented

भीष्म उवाच एते रथाः ते संख्याताः तथा एव अतिरथाः नृप ये च अपि अर्धरथाः राजन् पाण्डवानाम् अतः शृणु

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एते एतद् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=4,n=s
संख्याताः संख्या pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
अतिरथाः अतिरथ pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अर्धरथाः अर्धरथ pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अतः अतस् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot