Original

एतच्छ्रुत्वा तु राधेयः क्रोधादुत्फुल्ललोचनः ।उवाच भीष्मं राजेन्द्र तुदन्वाग्भिः प्रतोदवत् ॥ ९ ॥

Segmented

एतत् श्रुत्वा तु राधेयः क्रोधाद् उत्फुल्ल-लोचनः उवाच भीष्मम् राज-इन्द्र तुदन् वाग्भिः प्रतोद-वत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
उत्फुल्ल उत्फुल्ल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तुदन् तुद् pos=va,g=m,c=1,n=s,f=part
वाग्भिः वाच् pos=n,g=f,c=3,n=p
प्रतोद प्रतोद pos=n,comp=y
वत् वत् pos=i