Original

यद्वोऽब्रवीद्वाक्यमदीनसत्त्वो मध्ये कुरूणां हर्षयन्सत्यसंधः ।अहं हन्ता पाण्डवानामनीकं शाल्वेयकांश्चेति ममैष भारः ॥ १० ॥

Segmented

यद् वो ऽब्रवीद् वाक्यम् अदीन-सत्त्वः मध्ये कुरूणाम् हर्षयन् सत्य-संधः अहम् हन्ता पाण्डवानाम् अनीकम् शाल्वेयकान् च इति मे एष भारः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
वो त्वद् pos=n,g=,c=2,n=p
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
संधः संधा pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकम् अनीक pos=n,g=n,c=2,n=s
शाल्वेयकान् शाल्वेयक pos=n,g=m,c=2,n=p
pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
भारः भार pos=n,g=m,c=1,n=s