Original

द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः ।संवत्सरं विराटस्य दास्यमास्थाय चोषिताः ॥ ८ ॥

Segmented

द्वादश एव तु वर्षाणि वने धिष्ण्याद् विवासिताः संवत्सरम् विराटस्य दास्यम् आस्थाय च उषिताः

Analysis

Word Lemma Parse
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
एव एव pos=i
तु तु pos=i
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
धिष्ण्याद् धिष्ण्य pos=n,g=n,c=5,n=s
विवासिताः विवासय् pos=va,g=m,c=1,n=p,f=part
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
दास्यम् दास्य pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
pos=i
उषिताः वस् pos=va,g=m,c=1,n=p,f=part