Original

दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् ।दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः ॥ २५ ॥

Segmented

दश गुल्मा गणः तु आसीत् गणाः तु अयुतशस् ऽभवन् दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
गुल्मा गुल्म pos=n,g=m,c=1,n=p
गणः गण pos=n,g=m,c=1,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
गणाः गण pos=n,g=m,c=1,n=p
तु तु pos=i
अयुतशस् अयुतशस् pos=i
ऽभवन् भू pos=v,p=3,n=p,l=lan
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
सेनासु सेना pos=n,g=f,c=7,n=p
योत्स्यमानाः युध् pos=va,g=m,c=1,n=p,f=part
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p