Original

ततः शब्दः समभवत्समुद्रस्येव पर्वणि ।हृष्टानां संप्रयातानां घोषो दिवमिवास्पृशत् ॥ ५१ ॥

Segmented

ततः शब्दः समभवत् समुद्रस्य इव पर्वणि हृष्टानाम् सम्प्रयातानाम् घोषो दिवम् इव अस्पृशत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
इव इव pos=i
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
हृष्टानाम् हृष् pos=va,g=m,c=6,n=p,f=part
सम्प्रयातानाम् सम्प्रया pos=va,g=m,c=6,n=p,f=part
घोषो घोष pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
इव इव pos=i
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan