Original

ततः स्वरथमास्थाय जाम्बूनदविभूषितम् ।सहास्माभिर्निववृते राधेयो दीनमानसः ॥ ४८ ॥

Segmented

ततः स्व-रथम् आस्थाय जाम्बूनद-विभूषितम् सह अस्माभिः निववृते राधेयो दीन-मानसः

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
जाम्बूनद जाम्बूनद pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
निववृते निवृत् pos=v,p=3,n=s,l=lit
राधेयो राधेय pos=n,g=m,c=1,n=s
दीन दीन pos=a,comp=y
मानसः मानस pos=n,g=m,c=1,n=s