Original

द्रोण उवाच ।अश्वत्थाम्नि यथा पुत्रे भूयो मम धनंजये ।बहुमानः परो राजन्संनतिश्च कपिध्वजे ॥ ४ ॥

Segmented

द्रोण उवाच अश्वत्थाम्नि यथा पुत्रे भूयो मम धनंजये बहु-मानः परो राजन् संनतिः च कपिध्वजे

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अश्वत्थाम्नि अश्वत्थामन् pos=n,g=m,c=7,n=s
यथा यथा pos=i
पुत्रे पुत्र pos=n,g=m,c=7,n=s
भूयो भूयस् pos=i
मम मद् pos=n,g=,c=6,n=s
धनंजये धनंजय pos=n,g=m,c=7,n=s
बहु बहु pos=a,comp=y
मानः मान pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संनतिः संनति pos=n,g=f,c=1,n=s
pos=i
कपिध्वजे कपिध्वज pos=n,g=m,c=7,n=s