Original

यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम् ।त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् ॥ ४१ ॥

Segmented

यस्य शूरस्य विक्रान्तैः एधन्ते बान्धवाः सुखम् त्रिदशा इव शक्रस्य साधु तस्य इह जीवितम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
विक्रान्तैः विक्रान्त pos=n,g=n,c=3,n=p
एधन्ते एध् pos=v,p=3,n=p,l=lat
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सुखम् सुखम् pos=i
त्रिदशा त्रिदश pos=n,g=m,c=1,n=p
इव इव pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
साधु साधु pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इह इह pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s