Original

शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः ।दिष्टभावं गतस्यापि विघसे मोदते प्रजा ॥ ३४ ॥

Segmented

शूरस्य ऊर्जित-सत्त्वस्य सिंह-विक्रान्त-गामिनः दिष्टभावम् गतस्य अपि विघसे मोदते प्रजा

Analysis

Word Lemma Parse
शूरस्य शूर pos=n,g=m,c=6,n=s
ऊर्जित ऊर्जय् pos=va,comp=y,f=part
सत्त्वस्य सत्त्व pos=n,g=m,c=6,n=s
सिंह सिंह pos=n,comp=y
विक्रान्त विक्रान्त pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=6,n=s
दिष्टभावम् दिष्टभाव pos=n,g=m,c=2,n=s
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
विघसे विघस pos=n,g=n,c=7,n=s
मोदते मुद् pos=v,p=3,n=s,l=lat
प्रजा प्रजा pos=n,g=f,c=1,n=s