Original

एवमुक्त्वा जहासोच्चैः केशवः परवीरहा ।तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः ।अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः ॥ ४ ॥

Segmented

एवम् उक्त्वा जहास उच्चैस् केशवः पर-वीर-हा तस्य संस्मयतः शौरेः विद्युत्-रूपाः महात्मनः अङ्गुष्ठ-मात्राः त्रिदशाः मुमुचुः पावक-अर्चिषः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
जहास हस् pos=v,p=3,n=s,l=lit
उच्चैस् उच्चैस् pos=i
केशवः केशव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
संस्मयतः संस्मि pos=va,g=m,c=6,n=s,f=part
शौरेः शौरि pos=n,g=m,c=6,n=s
विद्युत् विद्युत् pos=n,comp=y
रूपाः रूप pos=n,g=f,c=2,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
मात्राः मात्र pos=n,g=f,c=2,n=p
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
पावक पावक pos=n,comp=y
अर्चिषः अर्चिस् pos=n,g=f,c=2,n=p