Original

दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै ।चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः ।मातामहं महाप्राज्ञं दिवमारोपयन्ति ते ॥ १७ ॥

Segmented

दौहित्राः स्वेन धर्मेण यज्ञ-दान-कृतेन वै चतुर्षु राज-वंशेषु सम्भूताः कुल-वर्धनाः मातामहम् महा-प्राज्ञम् दिवम् आरोपयन्ति ते

Analysis

Word Lemma Parse
दौहित्राः दौहित्र pos=n,g=m,c=1,n=p
स्वेन स्व pos=a,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
यज्ञ यज्ञ pos=n,comp=y
दान दान pos=n,comp=y
कृतेन कृ pos=va,g=m,c=3,n=s,f=part
वै वै pos=i
चतुर्षु चतुर् pos=n,g=m,c=7,n=p
राज राजन् pos=n,comp=y
वंशेषु वंश pos=n,g=m,c=7,n=p
सम्भूताः सम्भू pos=va,g=m,c=1,n=p,f=part
कुल कुल pos=n,comp=y
वर्धनाः वर्धन pos=a,g=m,c=1,n=p
मातामहम् मातामह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
आरोपयन्ति आरोपय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p