Original

इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय ।विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह ।ततोऽसि गतसंमोहः कृतकृत्यो द्विजर्षभ ॥ ९ ॥

Segmented

इमाम् अश्व-शत वै द्वाभ्याम् तस्मै निवेदय विश्वामित्राय धर्म-आत्मन् षड्भिः अश्व-शतैः सह ततो ऽसि गत-सम्मोहः कृतकृत्यो द्विजर्षभ

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
अश्व अश्व pos=n,comp=y
शत शत pos=n,g=n,c=3,n=d
वै वै pos=i
द्वाभ्याम् द्वि pos=n,g=n,c=3,n=d
तस्मै तद् pos=n,g=m,c=4,n=s
निवेदय निवेदय् pos=v,p=2,n=s,l=lot
विश्वामित्राय विश्वामित्र pos=n,g=m,c=4,n=s
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
षड्भिः षष् pos=n,g=n,c=3,n=p
अश्व अश्व pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
सह सह pos=i
ततो ततस् pos=i
ऽसि अस् pos=v,p=2,n=s,l=lat
गत गम् pos=va,comp=y,f=part
सम्मोहः सम्मोह pos=n,g=m,c=1,n=s
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s