Original

आचाराल्लभते धर्ममाचाराल्लभते धनम् ।आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ १५ ॥

Segmented

आचाराल् लभते धर्मम् आचाराल् लभते धनम् आचारात् श्रियम् आप्नोति आचारो हन्ति अलक्षणम्

Analysis

Word Lemma Parse
आचाराल् आचार pos=n,g=m,c=5,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचाराल् आचार pos=n,g=m,c=5,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
धनम् धन pos=n,g=n,c=2,n=s
आचारात् आचार pos=n,g=m,c=5,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
आचारो आचार pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
अलक्षणम् अलक्षण pos=n,g=n,c=2,n=s