Original

गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् ।एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ॥ १६ ॥

Segmented

गुरवे संश्रुतानि इह शतानि अष्टौ हि वाजिनाम् एकतः श्याम-कर्णानाम् शुभ्राणाम् चन्द्र-वर्चसाम्

Analysis

Word Lemma Parse
गुरवे गुरु pos=n,g=m,c=4,n=s
संश्रुतानि संश्रु pos=va,g=n,c=1,n=p,f=part
इह इह pos=i
शतानि शत pos=n,g=n,c=1,n=p
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
हि हि pos=i
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
एकतः एकतस् pos=i
श्याम श्याम pos=a,comp=y
कर्णानाम् कर्ण pos=n,g=m,c=6,n=p
शुभ्राणाम् शुभ्र pos=a,g=m,c=6,n=p
चन्द्र चन्द्र pos=n,comp=y
वर्चसाम् वर्चस् pos=n,g=m,c=6,n=p