Original

अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः ।अस्तो नाम यतः संध्या पश्चिमा प्रतिसर्पति ॥ ६ ॥

Segmented

अत्र सूर्यम् प्रणयिनम् प्रतिगृह्णाति पर्वतः अस्तो नाम यतः संध्या पश्चिमा प्रतिसर्पति

Analysis

Word Lemma Parse
अत्र अत्र pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
प्रणयिनम् प्रणयिन् pos=a,g=m,c=2,n=s
प्रतिगृह्णाति प्रतिग्रह् pos=v,p=3,n=s,l=lat
पर्वतः पर्वत pos=n,g=m,c=1,n=s
अस्तो अस्त pos=n,g=m,c=1,n=s
नाम नाम pos=i
यतः यतस् pos=i
संध्या संध्या pos=n,g=f,c=1,n=s
पश्चिमा पश्चिम pos=a,g=f,c=1,n=s
प्रतिसर्पति प्रतिसृप् pos=v,p=3,n=s,l=lat