Original

अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः ।विदुर्यं कपिलं देवं येनात्ताः सगरात्मजाः ॥ १७ ॥

Segmented

अत्र शक्रधनुः नाम सूर्यात् जातः महान् ऋषिः विदुः यम् कपिलम् देवम् येन आत्ताः सगर-आत्मजाः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
शक्रधनुः शक्रधनुस् pos=n,g=n,c=1,n=s
नाम नाम pos=i
सूर्यात् सूर्य pos=n,g=m,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
यम् यद् pos=n,g=m,c=2,n=s
कपिलम् कपिल pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
आत्ताः आदा pos=va,g=m,c=1,n=p,f=part
सगर सगर pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p