Original

न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः ।तथापि राजा सहितः सुहृद्भिरभीप्सतेऽनामयमेव तेषाम् ॥ १६ ॥

Segmented

न च अपि पार्थो विजितो रणे तैः स्व-तेजसा धृतराष्ट्रस्य पुत्रैः तथा अपि राजा सहितः सुहृद्भिः अभीप्सते ऽनामयम् एव तेषाम्

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
विजितो विजि pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
तैः तद् pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
तथा तथा pos=i
अपि अपि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
अभीप्सते अभीप्स् pos=v,p=3,n=s,l=lat
ऽनामयम् अनामय pos=n,g=n,c=2,n=s
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p