Original

वैशंपायन उवाच ।कृत्वा विवाहं तु कुरुप्रवीरास्तदाभिमन्योर्मुदितस्वपक्षाः ।विश्रम्य चत्वार्युषसः प्रतीताः सभां विराटस्य ततोऽभिजग्मुः ॥ १ ॥

Segmented

वैशंपायन उवाच कृत्वा विवाहम् तु कुरु-प्रवीराः तदा अभिमन्योः मुदित-स्व-पक्षाः विश्रम्य चत्वारि उषसः प्रतीताः सभाम् विराटस्य ततो ऽभिजग्मुः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृत्वा कृ pos=vi
विवाहम् विवाह pos=n,g=m,c=2,n=s
तु तु pos=i
कुरु कुरु pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
तदा तदा pos=i
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
मुदित मुद् pos=va,comp=y,f=part
स्व स्व pos=a,comp=y
पक्षाः पक्ष pos=n,g=m,c=1,n=p
विश्रम्य विश्रम् pos=vi
चत्वारि चतुर् pos=n,g=n,c=2,n=p
उषसः उषस् pos=n,g=f,c=2,n=p
प्रतीताः प्रती pos=va,g=m,c=1,n=p,f=part
सभाम् सभा pos=n,g=f,c=2,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
ततो ततस् pos=i
ऽभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit