Original

यदस्माभिरजानद्भिः किंचिदुक्तो नराधिपः ।क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः ॥ २० ॥

Segmented

यद् अस्माभिः अजानद्भिः किंचिद् उक्तो नराधिपः क्षन्तुम् अर्हति तत् सर्वम् धर्म-आत्मा हि एष पाण्डवः

Analysis

Word Lemma Parse
यद् यत् pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
अजानद्भिः अजानत् pos=a,g=m,c=3,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
नराधिपः नराधिप pos=n,g=m,c=1,n=s
क्षन्तुम् क्षम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s