Original

पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः ।दुर्योधनेन ते तात कथमासीत्समागमः ॥ १८ ॥

Segmented

पर्वतम् यो ऽभिविध्येत राज-पुत्रः महा-इषुभिः दुर्योधनेन ते तात कथम् आसीत् समागमः

Analysis

Word Lemma Parse
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभिविध्येत अभिव्यध् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s