Original

सर्वान्महीपान्सहितान्कुरूंश्च तथैव देवासुरयक्षनागान् ।अलं विजेतुं समरे सुतस्ते स्वनुष्ठितः सारथिना हि तेन ॥ १६ ॥

Segmented

सर्वान् महीपान् सहितान् कुरून् च तथा एव देव-असुर-यक्ष-नागान् अलम् विजेतुम् समरे सुतः ते सु अनुष्ठितः सारथिना हि तेन

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
महीपान् महीप pos=n,g=m,c=2,n=p
सहितान् सहित pos=a,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
नागान् नाग pos=n,g=m,c=2,n=p
अलम् अलम् pos=i
विजेतुम् विजि pos=vi
समरे समर pos=n,g=n,c=7,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part
सारथिना सारथि pos=n,g=m,c=3,n=s
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s