Original

भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः ।मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा ॥ ३ ॥

Segmented

भयात् संत्रस्-मनसः समाजग्मुः ततस् ततस् मुक्त-केशाः व्यदृश्यन्त स्थिताः प्राञ्जलयः तदा

Analysis

Word Lemma Parse
भयात् भय pos=n,g=n,c=5,n=s
संत्रस् संत्रस् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ततस् ततस् pos=i
मुक्त मुच् pos=va,comp=y,f=part
केशाः केश pos=n,g=m,c=1,n=p
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
तदा तदा pos=i