Original

तथा तु यान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी ।स चापि भीष्मस्य हयान्निहत्य विव्याध पार्श्वे दशभिः पृषत्कैः ॥ १७ ॥

Segmented

तथा तु यान्तम् पुरुष-प्रवीरम् भीष्मः शरैः अभ्यहनत् तरस्वी स च अपि भीष्मस्य हयान् निहत्य विव्याध पार्श्वे दशभिः पृषत्कैः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
हयान् हय pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p