Original

भीष्मस्य संज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः ।एतस्य वाहान्कुरु सव्यतस्त्वमेवं हि यातव्यममूढसंज्ञैः ॥ १४ ॥

Segmented

भीष्मस्य संज्ञाम् तु तथा एव मन्ये जानाति मे अस्त्र-प्रतिघातम् एषः एतस्य वाहान् कुरु सव्यतस् त्वम् एवम् हि यातव्यम् अमूढ-संज्ञैः

Analysis

Word Lemma Parse
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
तु तु pos=i
तथा तथा pos=i
एव एव pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
जानाति ज्ञा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
प्रतिघातम् प्रतिघात pos=n,g=m,c=2,n=s
एषः एतद् pos=n,g=m,c=1,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
वाहान् वाह pos=n,g=m,c=2,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
सव्यतस् सव्यतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
हि हि pos=i
यातव्यम् या pos=va,g=n,c=1,n=s,f=krtya
अमूढ अमूढ pos=a,comp=y
संज्ञैः संज्ञा pos=n,g=m,c=3,n=p