Original

ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः ।रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं जिष्णुमथाभ्यधावत् ॥ ७ ॥

Segmented

ततः प्रभिन्नेन महा-गजेन महीधर-आभेन पुनः विकर्णः रथैः चतुर्भिः गज-पादरक्षैः कुन्ती-सुतम् जिष्णुम् अथ अभ्यधावत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभिन्नेन प्रभिद् pos=va,g=m,c=3,n=s,f=part
महा महत् pos=a,comp=y
गजेन गज pos=n,g=m,c=3,n=s
महीधर महीधर pos=n,comp=y
आभेन आभ pos=a,g=m,c=3,n=s
पुनः पुनर् pos=i
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
रथैः रथ pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
गज गज pos=n,comp=y
पादरक्षैः पादरक्ष pos=n,g=m,c=3,n=p
कुन्ती कुन्ती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
अथ अथ pos=i
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan