Original

ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् ।पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम् ।व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः ॥ १६ ॥

Segmented

ततः कनक-पुङ्खानाम् शर-वृष्टिम् समुत्थिताम् पाण्डवस्य रथात् तूर्णम् शलभानाम् इव आयतिम् व्यधमत् ताम् पुनः तस्य भीष्मः शर-शतैः शितैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कनक कनक pos=n,comp=y
पुङ्खानाम् पुङ्ख pos=n,g=m,c=6,n=p
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
समुत्थिताम् समुत्था pos=va,g=f,c=2,n=s,f=part
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
आयतिम् आयति pos=n,g=f,c=2,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
शितैः शा pos=va,g=n,c=3,n=p,f=part