Original

अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः ।गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान् ॥ १२ ॥

Segmented

अग्नि-चक्रम् इव आविद्धम् सव्य-दक्षिणम् अस्यतः गाण्डीवम् अभवद् राजन् पार्थस्य सृजतः शरान्

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
इव इव pos=i
आविद्धम् आव्यध् pos=va,g=n,c=1,n=s,f=part
सव्य सव्य pos=a,comp=y
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
सृजतः सृज् pos=va,g=m,c=6,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p