Original

ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः ।अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत् ॥ ८ ॥

Segmented

ततः प्रहस्य बीभत्सुः दिव्यम् ऐन्द्रम् महा-रथः अस्त्रम् आदित्य-संकाशम् गाण्डीवे समयोजयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आदित्य आदित्य pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=2,n=s
गाण्डीवे गाण्डीव pos=n,g=n,c=7,n=s
समयोजयत् संयोजय् pos=v,p=3,n=s,l=lan