Original

इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः ।अदूरात्पर्यवस्थाय पूरयामासुरादृताः ॥ ६ ॥

Segmented

इषुभिः बहुभिः तूर्णम् समरे लोम-वाहिभिः अदूरात् पर्यवस्थाय पूरयामासुः आदृताः

Analysis

Word Lemma Parse
इषुभिः इषु pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
समरे समर pos=n,g=n,c=7,n=s
लोम लोमन् pos=n,comp=y
वाहिभिः वाहिन् pos=a,g=m,c=3,n=p
अदूरात् अदूर pos=a,g=n,c=5,n=s
पर्यवस्थाय पर्यवस्था pos=vi
पूरयामासुः पूरय् pos=v,p=3,n=p,l=lit
आदृताः आदृत pos=a,g=m,c=1,n=p