Original

शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः ।ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम् ॥ ५ ॥

Segmented

शर-ओघान् सम्यग् अस्यन्तो जीमूता इव वार्षिकाः ववर्षुः शर-वर्षाणि प्रपतन्तम् किरीटिनम्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
सम्यग् सम्यक् pos=i
अस्यन्तो अस् pos=va,g=m,c=1,n=p,f=part
जीमूता जीमूत pos=n,g=m,c=1,n=p
इव इव pos=i
वार्षिकाः वार्षिक pos=a,g=m,c=1,n=p
ववर्षुः वृष् pos=v,p=3,n=p,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
प्रपतन्तम् प्रपत् pos=va,g=m,c=2,n=s,f=part
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s